गुरुर्ब्रह्मा गुरुर्विष्णुर्
गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परं ब्रह्म
तस्मै श्रीगुरवे नमः ।।
वस्तुतः मनुष्यस्य कृते सन्मार्गदर्शकः कश्चन गुरुः अत्यन्तम् आवश्यकः। अस्मिन् कल्मषोपेते युगे तादृशः सद्गुरुः अत्यन्तं दुर्लभतां गतोऽस्ति । तस्मात् सर्वेषां हृदये, सर्वत्र च विद्यमानः परब्रह्म परमात्मा हि समेषां सद्गुरुः वर्तते, तस्य नित्यम् अन्वेषणञ्च अस्माभिः मनुष्यैः कर्तव्यम् । गुरोः प्राप्तिः, तस्य सान्निध्यञ्च मनुष्यस्य परमकल्याणाय भवति । वस्तुतस्तु जगति सर्वेषां गुरुरेक एव, यश्च परमात्मा आख्यायते - 'कृष्णं वन्दे जगद्गुरुम्' इति । यदा कस्यचन अन्तःकरणे स्वश्रेयसः, कल्याणस्य, उद्धारस्य वा इच्छा जागरिता भवति तदा सः आत्मानं भगवतः शिष्यं मन्यते ; भगवतः शरणागतो भूत्वा शिक्षां प्रार्थयते - 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्' इति गीतावचनम् । गीता बाह्यविधिषु, बाह्यपरिवर्तने च तावत् आदरभावं न दर्शयति, यावच्च अन्तर्भावे, विवेके, बोधे, जिज्ञासायां, त्यागे च आदरं दर्शयति । यतोहि गीताया उपदेशः सार्वभौमः, न वा कमपि विशेषसम्प्रदायं, व्यक्तिं वा आलम्ब्य भगवता कृत उपदेशोऽयं, प्रत्युत मानवमात्रस्य कृते प्रदत्त उपदेशो वर्तते ।
यदा कस्यचन अन्तःकरणे तीव्रजिज्ञासा, श्रद्धा, भक्तिः, विश्वास इत्यादिभावः समुद्भवेत् तदा मनुष्यो विना केनापि सम्बन्धेन अन्तःकरणे स्वतःस्फुर्ततया जागरितं स्वोपदेशं स्वीकुर्यात् - 'श्रद्धावांल्लभते ज्ञानम्' इति । तात्पर्यं यत् ज्ञानन्तु स्वकीयया जिज्ञासया, लगनतया हि सम्भवति, न वा केवलं गुरोः स्वीकरणमात्रेण । स्वकीयोद्धारस्तु स्वयमेव कार्यः - 'उद्धरेदात्मनात्मानम्' इति ।
वास्तविकतया भगवान् हि सर्वेषां गुरुः, यच्च उपर्युक्तम् । यतोहि भगवता रचिते संसारेऽस्मिन् यस्मादपि ज्ञानप्रकाशादिकम् उपलब्धं भवति, तत्तु भगवत्तो हि प्राप्तवस्तु स्यात् - 'अहमादिर्हि देवानां महर्षीणां च सर्वशः' इति ।
पूर्वं परम्परया बहवः सिद्धा गुरवः सञ्जाताः अस्मिन् भारते, भूतले च ।परन्तु अस्मिन् घोरकलिसमये न सद्गुरवः अपितु धर्मनाम्ना वञ्चकाः, निन्दकाः, क्रूरा वा हि सर्वत्र उपलभ्यन्ते । कथञ्चित् कोटिषु एक एकः सिद्धगुरुः स्याद्वा न वा, शङ्केति । गुरुलक्षणं महद्भवति । सज्जनस्य दृष्टिः, कर्म, भक्तिः, ज्ञानम् इत्यादिकं सर्वं सदैव एकमात्रं भगवदभिमुखं हि भवति । मानवता, सहृदयता, समदर्शिता, प्रेम, आत्मीयता इत्यादिको भावो गुरुलक्षणे अवलोक्यते इति, शुभम्।
-- नारदः ।
No comments:
Post a Comment
If you have any doubts. please let me know...